|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.19. अध्यायः 019
Mahabharata - Shalya Parva - Chapter Topics
सात्यकिना साल्ववधः॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्जरा उवाच। 9-19-0x(5115)(61186)
सन्निवृत्तेषु सैन्येषु साल्वो म्लेच्छगणाधिपः।
अभ्यद्रवत्सुसङ्क्रुद्धः पाण्डवानां महद्बलम्॥ 9-19-1(61187)
आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम्।
सप्तमैरावतप्रख्यममित्रगणमर्दनम्॥ 9-19-2(61188)
योऽसौ महान्भद्रकुलप्रसूतः
सुपूजितो धार्तराष्ट्रेण नित्यम्।
सुकल्पितः शास्त्रविनिश्चयज्ञैः
सदौपवाह्यः समरेषु राजन्॥ 9-19-3(61189)
ऐरावतं दैत्यगणान्विमृद्र--
ञ्शक्रो यथा सञ्जनयन्भयानि।
तमास्थितो राजवरो बभूव
यथोदयस्थः सविता क्षपान्ते॥ 9-19-4(61190)
स तेन नागप्रवरेण राज--
न्नभ्युद्ययौ पाण्डुसुतान्समेतान्।
शितैः पृषत्कैर्विददार वेगै--
र्महेन्द्रवज्रप्रतिमैः सुघोरैः॥ 9-19-5(61191)
ततः शरान्वै सृजतो महारणे
योधांश्च राजन्नयतो यमालयम्।
नास्यानत्रं ददृशुः स्वे परे वा
यथा पुरा वज्रधरस्य दैत्याः॥ 9-19-6(61192)
ते पाण्डवाः सोमकाः सृञ्जयाश्च
तमेकनागं ददृशुः समन्तात्।
सहस्रशो वै विचरन्तमेकं
यथा महेन्द्रस्य गजं समीपे॥ 9-19-7(61193)
सन्द्राव्यमाणं तु बलं परेषां
परेतकल्पं विबभौ समन्ततः।
नैवावतस्थे समरे भृशं भया--
द्विमृद्यमानं तु परस्परं तदा॥ 9-19-8(61194)
ततः प्रभग्ना सहसा महाचमूः
सा पाण्डवी तेन नराधिपेन।
दिशश्चतस्रः सहसा विधाविता
गजेन्द्रवेगं तमपारयन्ती॥ 9-19-9(61195)
दृष्ट्वा च तां वेगवता प्रभग्नां
सर्वे त्वदीया युधि योधमुख्याः।
अपूजयंस्ते तु नराधिपं तं
दध्मुश्च शङ्खाञ्शशिसन्निकाशान्॥ 9-19-10(61196)
श्रुत्वा निनादं त्वथ कौरवाणां
हर्षाद्विमुक्तं सह शङ्खशब्दैः।
सेनापतिः पाण्डवसृञ्जयानां
पाञ्चालपुत्रो ममृषे न कोपात्॥ 9-19-11(61197)
ततस्तु तं वै द्विरदं महात्मा
प्रत्युद्ययौ त्वरमाणो जयाय।
जम्भो यथा शक्रसमागमे वै
नागेन्द्रमैरावणमिन्द्रवाह्यम्॥ 9-19-12(61198)
तमापतन्तं सहसा तु दृष्ट्वा
पाञ्चालपुत्रं युधि राजसिंहः।
तं वै द्विपं प्रेषयामास तूर्णं
वधाय राजन्द्रुपदात्मजस्य॥ 9-19-13(61199)
स तं द्विपेन्द्रं सहसापतन्त--
मविध्यदग्निप्रतिमैः पृषत्कैः।
कर्मारधौतैर्निशितैर्ज्वलद्भि--
र्नाराचमुख्यैस्त्रिभिरुग्रवेगैः॥ 9-19-14(61200)
ततोऽपरान्पञ्चशतान्महात्मा
नाराचमुख्यान्विससर्ज कुम्भे।
स तैस्तु विद्धः परमद्विपो रणे
तदा परावृत्य भृशं प्रदुद्रुवे॥ 9-19-15(61201)
तं नागराजं सहसा प्रणुन्नं
विद्राव्यमाणं विनिवर्त्य साल्वः।
तोत्राङ्कुशैः प्रेषयामास तूर्णं
पाञ्चालराजस्य सुतं प्रदिश्य॥ 9-19-16(61202)
दृष्ट्वा पतन्तं सहसा तु नागं
धृष्टद्युम्नः स्वरथाच्छीघ्रमेव।
गदां प्रगृह्योग्रजवेन वीरो
भूमिं प्रपन्नो भयविह्वलाङ्गः॥ 9-19-17(61203)
स तं रथं हेमविभूषिताङ्गं
साश्वं ससूतं सहसा विमृद्य।
उत्क्षिप्य हस्तेन नदन्महाद्विपो
विपोथयामास वसुन्धरातले॥ 9-19-18(61204)
पाञ्चालराजस्य सुतं च दृष्ट्वा
तदार्दितं नागवरेण तेन।
तमभ्यधावत्सहसा जवेन
भीमः शिखण्डी च शिनेश्च नप्ता॥ 9-19-19(61205)
शरैश्च वेगं सहसा निगृह्य
तस्याभितो व्यापततो गजस्य।
स सङ्गृहीतो रथिभिर्गजो वै
चचाल तैर्वार्यमाणश्च सङ्ख्ये॥ 9-19-20(61206)
ततः पृषत्कान्प्रववर्ष राजा
सूर्यो यथा रश्मिजालं समन्तात्।
तैराशुगैर्वध्यमाना रथौघाः
प्रदुद्रुवुः सहितास्तत्रतत्र॥ 9-19-21(61207)
तत्कर्म साल्वस्य समीक्ष्य सर्वे
पाञ्चालपुत्रा नृप सृञ्जयाश्च।
हाहाकारैर्नादयन्ति स्म युद्धे
द्विपं समन्ताद्रुरुधुर्नराग्र्याः॥ 9-19-22(61208)
पाञ्चालपुत्रस्त्वरितस्तु शूरो
गदां प्रगृह्याचलशृङ्गकल्पाम्।
ससम्भ्रमं भारत शत्रुघाती
जवेन वीरोऽनुससार नागम्॥ 9-19-23(61209)
ततस्तु नागं धरणीधराभं
मदं स्रवन्तं जलदप्रकाशम्।
गदां समातिध्य भृशं जघान
पाञ्चालराजस्य सुतस्तरस्वी॥ 9-19-24(61210)
स भिन्नकुम्भः सहसा विनद्य
मुखात्प्रभूतं क्षतजं विमुञ्चन्।
पपात नागो धरमीधराभः
क्षितिप्रकम्पाच्चलितो यथाऽद्रिः॥ 9-19-25(61211)
निपात्यमाने तु तदा गजेन्द्रे
हाहाकृते तव पुत्रस्य सैन्ये।
स साल्वराजस्य शिनिप्रवीरो
जहार भल्लेन शिरः शितेन॥ 9-19-26(61212)
हृतोत्तमाङ्गो युधि सात्वतेन
पपात भूमौ सह नागराज्ञा।
यथाऽद्रिशृङ्गं सुमहत्प्रणुन्नं
वज्रेण देवाधिपचोदितेन॥ ॥ 9-19-27(61213)
इति श्रीमन्महाभारते शल्यवधपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे एकोनविंशोऽध्यायः॥ 19 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|